(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.135. अध्यायः 135
Mahabharata - Vana Parva - Chapter Topics
श्वेतकेतुना सह जनकयज्ञशालां विविक्षोरष्टावक्रस्य द्वारपालेन निरोधनम् ॥ 1 ॥ अष्ठावक्रद्वारपालयोः संवादः ॥ 2 ॥ स्वप्रश्नस्योत्तरदानतुष्टेन राज्ञा सभाप्रवेशाभुमतिः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

अष्टावक्र उवाच। 3-135-0x(2147)(21033)
अन्धस्य पन्था बधिरस्य पन्थाः
स्त्रियः पन्था भारवाहस्य पन्थाः।
राज्ञः पन्था ब्राह्मणेनासमेत्य
समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ 3-135-1(21034)
राजोवाच। 3-135-2x(2148)
पन्था अयं तेऽद्य मया निसृष्टो
येनेच्छसे तेन कामं व्रजस्व।
न पावको विद्यते वै लघीया-
निन्द्रोपि नित्यं नमते ब्राह्मणानाम् ॥ 3-135-2(21035)
लोमश उवाच। 3-135-3x(2149)
`स एवमुक्तो मातुलेनैव सार्धं
यथेष्टमार्गो यज्ञनिवेशनं तत्।
संप्राप्य धर्मेण निवारितः सन्
द्वारि द्वाःस्थं वाक्यमिदं बभाषे ॥' 3-135-3(21036)
यज्ञं द्रष्टुं प्राप्तवन्तौ स्म तात
कौतूहलं बलवद्वै विवृद्धम्।
आवां प्राप्तावतिथी संप्रवेशं
काङ्क्षावहे द्वारपते तवाज्ञाम् ॥ 3-135-4(21037)
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां
विवक्षू वै जनकेन्द्रं दिदृक्षू।
न वै क्रुध्यो वन्दिना चोत्तमेन
संयोजय द्वारपाल क्षणेन ॥ 3-135-5(21038)
द्वारपाल उवाच। 3-135-5x(2150)
वन्देः समादेशकरा वयं स्म
निबोध वाक्यं च मयेर्यमाणम्।
न वै बालाः प्रविशन्त्यत्र विप्रा
वृद्धा विदग्धाः प्रविशन्ति द्विजाग्र्याः ॥ 3-135-6(21039)
अष्टावक्र उवाच। 3-135-7x(2151)
यद्यत्रवृद्धेषु कृतः प्रवेशो
युक्तं मया द्वारपाल प्रवेष्टुम्।
वयं हि वृद्धाश्चरितव्रताश्च
वेदप्रभावेन समन्विताश्च ॥ 3-135-7(21040)
शुश्रूषवश्चापि जितेन्द्रियाश्च
ज्ञानागमे चापि गताः स्म निष्ठाम्।
न बाल इत्येव मन्तव्यमाहु-
र्बालोऽप्यग्निर्दहति स्पृश्यमानः ॥ 3-135-8(21041)
द्वारपाल उवाच। 3-135-9x(2152)
सरस्वतीमीरय वेद जुष्टा-
मेकाक्षरां बहुरूपां विराजम्।
अङ्गात्मानं समवेक्षस्व बालं
किं श्लाघसे दुर्लभा वादसिद्धिः ॥ 3-135-9(21042)
अष्टावक्र उवाच। 3-135-10x(2153)
न ज्ञायते कायवृद्ध्या विवृद्धि-
र्यथाऽष्ठीला शाल्मलेः संप्रवृद्धाः।
ह्रस्वोऽल्पकायः फलितो विवृद्धो
यश्चाफलस्तस्य न वृद्धभावः ॥ 3-135-10(21043)
द्वारपाल उवाच। 3-135-11x(2154)
वृद्धेभ्य एवेह मतिं स्म बाला
गृह्णन्ति कालेन भवन्ति वृद्धाः।
न हि ज्ञातुमल्पकालेन शक्यं
कस्माद्बालः स्थविर इव प्रभाषसे ॥ 3-135-11(21044)
अष्टावक्र उवाच। 3-135-12x(2155)
न तेन स्थविरो भवति येनास्य पलितं शिरः।
बालोपि यः प्रजानाति तं देवाः स्थविरं विदुः ॥ 3-135-12(21045)
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ 3-135-13(21046)
दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि।
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ॥ 3-135-14(21047)
द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः।
सह वादे विवृद्धे तु वन्दिनं चापि निर्जितम् ॥ 3-135-15(21048)
पश्यन्तु विप्राः परिपूर्णविद्याः
सहैव राज्ञा सपुरोधमुख्याः।
उताहो वाऽप्युच्चतां नीचतां वा
तूष्णींभूतेष्वेव सर्वेष्वथाद्य ॥ 3-135-16(21049)
द्वारपाल उवाच। 3-135-17x(2156)
कथं यज्ञं दशवर्षो विशेस्त्वं
विनीतानां विदुषां संप्रवेशम्।
उपायतः प्रयतिष्ये तवाहं
प्रवेशने कुरु यत्नं यथावत् ॥ 3-135-17(21050)
`एष राजा संश्रवणे स्थितस्ते
स्तुह्येनं त्वं वचसा संस्कृतेन।
स चानुज्ञां दास्यति प्रीतियुक्तः
प्रवेशने यच्च किंचित्तवेष्टम्'॥ 3-135-18(21051)
अष्टावक्र उवाच। 3-135-19x(2157)
भोभो राजञ्जनकानां वरिष्ठ
त्वं वै सम्राट् त्वयि सर्वं समृद्धम्।
त्वं वा कर्ता कर्मणां यज्ञियानां
ययातिरेको नृपतिर्वा पुरस्तात् ॥ 3-135-19(21052)
विद्वान्वन्दी वादविदो निगृह्य
वादे भग्नानप्रतिशङ्कमानः।
त्वयाऽभिसृष्टैः पुरुषैराप्तकृद्भि-
र्जले सर्वान्मज्जयतीति नः श्रुतम् ॥ 3-135-20(21053)
सोऽहं श्रुत्वा ब्राह्मणानां सकाशे
ब्रह्माद्य वै कथयितुमागतोस्मि।
क्वासौ वनदी यावदेनं समेत्य
नक्षत्राणीव सविता नाशयामि ॥ 3-135-21(21054)
राजोवाच। 3-135-22x(2158)
आशंससे वन्दिनं वै विजेतु-
मविज्ञाय त्वं वाक्यबलं परस्य।
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं
दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ॥ 3-135-22(21055)
आशंसमाना वन्दिनं वै बिजेतु-
मविज्ञात्वा तु बलं वन्दिनोऽस्य।
समागता ब्राह्मणास्तेन पूर्वं
न शोभन्ते भास्करेणेव ताराः ॥ 3-135-23(21056)
आशानुबन्धो हि तवात्र यत्नः
स वन्दिमासाद्यतथा विनश्यति।
विज्ञानवन्तो निकृतास्तु तात
कथं सदस्तर्तुमिदं समर्थः ॥ 3-135-24(21057)
अष्टावक्र उवाच। 3-135-25x(2159)
विवादितोऽसौ न हि मादृशैर्हि
सिंहीकृतस्तेन वदन्यभीतः।
समेत्य मां निहतः शेष्यतेऽद्य
मार्गे भग्नं शकटमिवाबलाक्षम् ॥ 3-135-25(21058)
राजोवाच। 3-135-26x(2160)
षण्नाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः।
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ॥ 3-135-26(21059)
अष्टावक्र उवाच। 3-135-27x(2161)
चतुर्विंशतिपर्व त्वां षणअनाभि द्वादशप्रधि।
तत्रिषष्टिशतारं वै चक्रं पातु सदागति ॥ 3-135-27(21060)
राजोवाच। 3-135-28x(2162)
बडबे इव संयुक्ते श्येनपाते दिवौकसाम्।
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥ 3-135-28(21061)
अष्टावक्र उवाच। 3-135-29x(2163)
मा स्म भूः स्वगृहे राजञ्शात्रवाणामपि ध्रुवम्।
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ॥ 3-135-29(21062)
राजोवाच। 3-135-30x(2164)
किंस्वित्स्तुप्तं न निमिषति किंस्विज्जातं न चोपति।
कस्यखिद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ॥ 3-135-30(21063)
अष्टावक्र उवाच। 3-135-31x(2165)
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ 3-135-31(21064)
राजोवाच। 3-135-32x(2166)
न त्वां मन्ये मानुषं देवसत्व
न त्वं बालः स्थविरः संमतो मे।
न ते तुल्यो विद्यते वाक्प्रलापे
तस्माद्द्वारं वितराम्येष विद्वन् ॥ 3-135-32(21065)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-135-1 स्त्रियः पन्था वै पथिकस्य पन्था इति क. पाठः. अन्धादीनामक्षमत्वान्मार्गो देय इत्यर्थः। असमेत्य समीपं अप्राप्य ॥ 3-135-5 ऐन्द्रद्युम्नेर्जनकस्य ॥ 3-135-7 चरितव्रताश्च तपःप्रभावेन निवेशनार्हाः इति क. ध. पाठः ॥ 3-135-8 ज्ञानागमे ज्ञानशास्त्रे वेदान्तेष्वित्यर्थः। निष्ठां निश्चयम् ॥ 3-135-9 वेद जानीते यदि तर्हि ईरय। जुष्टां मुनिसेविताम्। एकमेव अक्षरं ब्रह्म प्रतिपाद्यं यस्यां तां एकाक्षराम्। बहुरूपां मन्त्रार्थवादादिरूपाम्। विराजं विशेषेण कर्मकाण्डादाधिवयेन राजमानाम्। अङ्गेति संबोधने ॥ 3-135-10 शाल्मलेरष्ठीला शाल्मलिफलान्तर्गतग्रन्थिः। सहि केवलतूलमयत्वान्निःसारः। अतो देहवृद्धिर्व्यर्था। अल्पकायः कृशः ॥ 3-135-13 अनूचानः साङ्गवेदाध्यायी ॥ 3-135-14 पुष्करमालिने स्वर्णमालाधारिणे ॥ 3-135-19 सम्राट् सार्वभौमः ॥ 3-135-21 ब्रह्माद्वैत इति झ. पाठः। ब्रह्माद्यं वै इति ध. पाठः ॥ 3-135-27 प्रधयो मासा राशयो वा। तेषु हि त्रिंशदहोरात्रा अंशा वा प्रत्येकं प्रत्येकं प्रधीयन्ते। चक्रं पात्वस्मिन् काले यथाकालं विहितो धर्मस्त्वां पात्वित्यर्थः। केवलकालज्ञानस्यापुरुषार्थत्वात्। एवमन्यत्रापि विंधानं द्रष्टव्यम् ॥ 3-135-28 रथसंयुक्ते अश्वे इव सहचारिण्यौ श्येनपाते श्येनवदकस्मात् पतनशीले ये उभे वर्तेते। दिवौकसां देवानां मध्ये तयोः संबन्धिनं गर्भं को धत्ते। कस्य गर्भे ते उत्पद्येते कंच जनयत इत्यर्थः ॥ 3-135-32 वाक्प्रलापे वाचां प्रकृष्टे संलापे। वितराम्येष वन्दीति झ. पाठः। एष वन्दी दृश्यतामिति शेषः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.